वांछित मन्त्र चुनें

अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीप॒: प्र च॑क्षय कृणु॒हि वस्य॑सो नः । अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥

अंग्रेज़ी लिप्यंतरण

agniṁ na mā mathitaṁ saṁ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ | athā hi te mada ā soma manye revām̐ iva pra carā puṣṭim accha ||

पद पाठ

अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ । अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥ ८.४८.६

ऋग्वेद » मण्डल:8» सूक्त:48» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:12» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

अन्न-भक्षण का लाभ कहते हैं।

पदार्थान्वयभाषाः - (सोम) हे सर्वश्रेष्ठ ! रसमय अन्न (अपाम) तुमको हम पीवें। (अमृताः+अभूम) अमृत होवें (ज्योतिः+अगन्म) शरीरशक्ति या परमात्म ज्योति------(आगे का पाठ उपलब्ध नहीं है) ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

अन्नभक्षणस्य लाभमाह।

पदार्थान्वयभाषाः - हे सोम=हे सर्वश्रेष्ठ रसमयान्न ! त्वाम्। अपाम=पिबेम। तेन पानेन अमृता अभूम=भवेम। ज्योतिः=शरीरशक्तिं परमात्मज्योतिर्वा। अगन्म=गच्छेम। ततः। देवान्= इन्द्रियाणि इन्द्रियसामर्थ्यानि। अविदाम=विन्देम। ईदृशानस्मान्। अरातिः=आभ्यन्तरशत्रुः। नूनमिदानीम्। किं कृणवत्=किं करिष्यति। हे अमृत ! प्रवाहरूपेण सदा वर्तमान ! मर्त्यस्य। धूर्तिः=हिंसकः। किमु=किं करिष्यति। यदि स ईश्वररतोऽस्ति ॥३॥